वांछित मन्त्र चुनें

वि हि त्वामि॑न्द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वय॑न्ते । अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्त्सव॑ना॒ तेषु॑ हर्य ॥

अंग्रेज़ी लिप्यंतरण

vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante | asmākaṁ te madhumattamānīmā bhuvan savanā teṣu harya ||

पद पाठ

वि । हि । त्वाम् । इ॒न्द्र॒ । पु॒रु॒धा । जना॑सः । हि॒तऽप्र॑यसः । वृ॒ष॒भ॒ । ह्वय॑न्ते । अ॒स्माक॑म् । ते॒ । मधु॑मत्ऽतमानि । इ॒मा । भु॒व॒न् । सव॑ना । तेषु॑ । ह॒र्य॒ ॥ १०.११२.७

ऋग्वेद » मण्डल:10» सूक्त:112» मन्त्र:7 | अष्टक:8» अध्याय:6» वर्ग:13» मन्त्र:2 | मण्डल:10» अनुवाक:9» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वृषभ-इन्द्र) हे सुखवर्षक परमात्मन् ! (पुरुधा) बहुत प्रकार के (हितप्रियसः) हित के लिये उपासनारस जिनका है, ऐसे वे उपासक जन (त्वां हि) तुझको ही (वि ह्वयन्ते) विशिष्टता से बुलाते हैं (ते) तेरे लिये (अस्माकम्) हमारे (इमा) ये सब (मधुमत्तमानि) अत्यन्त मधुरयुक्त प्रार्थनावचन प्रेरणा (भुवन्) हैं (तेषु) उन्हें (हर्य) चाह-स्वीकार कर ॥७॥
भावार्थभाषाः - परमात्मा सुखों का वर्षक है, वह उत्तम उपासनारस समर्पित करनेवाले उपासकों के प्रार्थनावचनों को पूरा करता है, चाहता है, स्वीकार करता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वृषभ-इन्द्र) हे सुखवर्षक ऐश्वर्यवन् परमात्मन् ! (पुरुधा हितप्रयसः-जनासः) बहुधा स्वहिताय प्रियाः-उपासनारसो येषां ते-उपासका जनाः (त्वां हि) त्वामेव (वि ह्वयन्ते) विशिष्टतया-आह्वयन्ति (ते-अस्माकम्) तुभ्यमस्माकम् (इमा मधुमत्तमानि सवनानि भुवन्) एतानि खल्वतिशयेन मधुरयुक्तानि प्रार्थनाप्रेरणानि सन्ति (तेषु हर्य) तानि “विभक्तिव्यत्ययेन सप्तमी द्वितीयास्थाने” कामयस्व ॥७॥